|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.102. अध्यायः 102
Mahabharata - Udyoga Parva - Chapter Topics
नारदेन मातलिं रसातलमुपनीय तत्र वास्तव्यसुरभिसन्ततिगुणस्तवनम् ॥ 1 ॥
Mahabharata - Udyoga Parva - Chapter Text
नारद उवाच। 5-102-0x(3689)(35399)
इदं रसातलं नाम सप्तमं पृथिवीतलम्।
यत्रास्ते सुरभिर्माता गवाममृतसंभवा ॥ 5-102-1(35400)
क्षरन्ती सततं क्षीरं पृथिवीसारसंभवम् ।
षण्णं रसानां सारेण रसमेकमनुत्तमम् ॥ 5-102-2(35401)
अमृतेनाभितृप्तस्य सारमुद्गिरतः पुरा।
पितामहस्य वदनादुदतिष्ठदनिन्दिता ॥ 5-102-3(35402)
यस्याः क्षीरस्य धाराया निपतन्त्या महीतले।
ह्रदः कृतः क्षीरनिधिः पवित्रं परमुच्यते ॥ 5-102-4(35403)
पुष्पितस्येव फेनेन पर्यन्तमनुवेष्टितम्।
पिबन्तो निवसन्त्यत्र फेनपा मुनिसत्तमाः ॥ 5-102-5(35404)
फेनपा नाम ते ख्याताः फेनाहाराश्च मातले।
उग्रे तपसि वर्तन्ते येषां बिभ्यति देवताः ॥ 5-102-6(35405)
अस्याश्चतस्रो धेन्वोऽन्या दिक्षु सर्वासु मातले।
निवसन्ति दिशां पाल्यो धारयन्त्योदिशःस्म ताः ॥ 5-102-7(35406)
पूर्वां दिशं धारयते सुरूपा नाम सौरभी ।
दक्षिणां हंसिका कनाम धारयत्यपरां दिशम्॥ 5-102-8(35407)
पश्चिमा वारुणी दिक्च धार्यते वै सुभद्रया।
महानुभावया नित्यं मातले विश्वरूपया ॥ 5-102-9(35408)
सर्वकामदुघा नाम धेनुर्धारयते दिशम्।
उत्तरां मातले धर्म्यां तथैलविलसंश्रिताम् ॥ 5-102-10(35409)
आसां त पयसा मिश्रं पयो निर्मथ्य सागरे ।
मन्थानं मन्दरं कृत्वा देवैरसुरसंहितैः ॥ 5-102-11(35410)
अद्धृता वारुणी लक्ष्मीरमृतं चापि मातले।
उच्चैःश्रवाश्चाश्वराजो मणिरत्नं च कौस्तुभम् ॥ 5-102-12(35411)
सुधाहारेषु च सुधां स्वधाभोजिषु च स्वधाम्।
अमृतं चामृताशेषु सुरभी क्षरते पयः ॥ 5-102-13(35412)
अत्र गाथा पुरा गीता रसातलनिवासिभिः ।
पौराणी श्रूयते लोके गीयते या मनीषिभिः ॥ 5-102-14(35413)
न नागलोके न स्वर्गे न विमाने त्रिविष्टपे।
परिवासः सुखस्तादृक् रसातलतले यथा ॥ ॥ 5-102-15(35414)
इति श्रीमन्महाभारते उद्योगपर्वणि भगवाद्यानपर्वणि द्व्यधिकशततमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-102-11 असुरसंहितैः असुरसहितैः ॥ 5-102-15 परिवासः निवासः । सुखः सुखकरः ॥ 15 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|